Prajñā-pāramitā-hṛdaya


▼ページ最下部
001 2024/08/14(水) 12:00:52 ID:lGxBd3EyIA
प्रज्ञापारमिताहृदयसूत्रम्
नमस्सर्वज्ञाय ॥
आर्यावलोकितेश्वरबोधिसत्त्वो गम्भीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म ।
पञ्च स्कन्धाः, तांश्च स्वभावशून्यान्पश्यति स्म ॥
इह शारिपुत्र रूपं शून्यता, शून्यतैव रूपम् ।
रूपान्न पृथक्शून्यता, शून्यताया न पृथग्रूपम् । यद्रूपं सा शून्यता, या शून्यता तद्रूपम् ॥
एवमेव वेदनासंज्ञासंस्कारविज्ञानानि ॥
इहं शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णाः ।
तस्माच्छारिपुत्र शून्यतायां न रूपम्, न वेदना, न संज्ञा, न संस्काराः, न विज्ञानानि ।
न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसि,

返信する

002 2024/08/14(水) 12:03:57 ID:lGxBd3EyIA
न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः ।
न चक्षुर्धातुर्यावन्न मनोधातुः ॥
न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन्न जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तित्वम् ॥
बोधिसत्त्वस्य प्रज्ञापारमितामाश्रित्य विहरति चित्तावरणः ।
चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः ।
त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः ॥
तस्माज्ज्ञातव्यः प्रज्ञापारमितामहामन्त्रो महाविद्यामन्त्रो ’नुत्तरमन्त्रो ’समसममन्त्रः सर्वदुःखप्रशमनः सत्यममिथ्यत्वात्
प्रज्ञापारमितायामुक्तो मन्त्रः ।
तद्यथा गते गते पारगते पारसंगते बोधि स्वाहा ॥

返信する

003 2024/08/14(水) 12:23:14 ID:PtbuJCZVOI
का भाषा अस्ति ?
पठितुं शक्नुथ वा ?इदं मूर्खता अस्ति

返信する

004 2024/08/14(水) 14:16:45 ID:/6t2P4Q0x6
エントロピーの法則  (^。^;)

返信する

005 2024/08/14(水) 14:36:22 ID:9GFXoY28C6
006 2024/08/14(水) 16:23:03 ID:lGxBd3EyIA

▲ページ最上部

ログサイズ:4 KB 有効レス数:6 削除レス数:0





とりあえず掲示板に戻る 全部 次100 最新50

スレッドタイトル:Prajñā-pāramitā-hṛdaya

レス投稿

未ログイン (ログイン

↑画像ファイル(jpg,gif,png)